॥ श्रीः ॥
1.224. अध्यायः 224
Mahabharata - Adi Parva - Chapter Topics
भीष्मद्रोणाभ्यामुक्तमेवावश्यं करणीयं पाण्डवा जेतुं न शक्याः दुर्योधनादीनां वचनं मा कुरु इति धृतराष्ट्रंप्रति विदुरस्योक्तिः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
विदुर उवाच। 1-224-0x(1227)(9705)
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः।
न त्वशुश्रूषमाणे वै वाक्यं संप्रति तिष्ठति॥ 1-224-1(9706)
प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः।
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च॥ 1-224-2(9707)
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम्।
तच्च राधासुतः कर्णो मन्यते न हितं तव॥ 1-224-3(9708)
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम्।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः॥ 1-224-4(9709)
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च।
समौ च त्वयि राजेन्त्र तथा पाण्डुसुतेषु च॥ 1-224-5(9710)
धर्मे चानवरौ राजन्सत्यतायां च भारत।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः॥ 1-224-6(9711)
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन।
न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि॥ 1-224-7(9712)
तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ॥ 1-224-8(9713)
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप।
त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः॥ 1-224-9(9714)
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम्॥ 1-224-10(9715)
एतद्धि परमं श्रेयो मन्येऽहं तव भारत।
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव॥ 1-224-11(9716)
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः।
तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः॥ 1-224-12(9717)
मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः।
अथ ते हृदये राजन्विशेषः स्वेषु वर्तते।
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम्॥ 1-224-13(9718)
एतदर्थमिमौ राजन्महात्मानौ महाद्युती।
नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः॥ 1-224-14(9719)
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ।
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते॥ 1-224-15(9720)
कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः।
शक्यो विजेतुं संग्रामे राजन्मघवतापि हि॥ 1-224-16(9721)
`भीमसेनो महाबाहुर्नागायुतबलो महान्।
राक्षसानां भयकरो बाहुशाली महाबलः॥ 1-224-17(9722)
हिडिम्बो निहतो येन बाहुयुद्धेन भारत।
यो रावणसमो युद्धे तथा च बकराक्षसः॥ 1-224-18(9723)
स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः।'
कथं स्म युधि शक्येत विजेतुममरैरपि॥ 1-224-19(9724)
तथैव कृतिनौ युद्धे यमौ यमसुताविव।
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता॥ 1-224-20(9725)
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्॥ 1-224-21(9726)
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः॥ 1-224-22(9727)
द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः॥ 1-224-23(9728)
`चैद्यश्च येषां भ्राता च शिशुपालो महारथः।'
सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत।
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर॥ 1-224-24(9729)
इदं निर्दिष्टमयशः पुरोचनकृतं महत्।
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः॥ 1-224-25(9730)
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले।
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम्॥ 1-224-26(9731)
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा।
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम्॥ 1-224-27(9732)
बलवन्तश्च दाशार्हा बहवश्च विशांपते।
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः॥ 1-224-28(9733)
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप।
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत्॥ 1-224-29(9734)
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः।
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु॥ 1-224-30(9735)
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः॥ 1-224-31(9736)
उक्तमेतत्पुरा राजन्मया गुणवतस्तव।
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति॥ ॥ 1-224-32(9737)